|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.147. अध्यायः 147
Mahabharata - Drona Parva - Chapter Topics
अल्पशेषे दिवसे तिरोहिते च जयद्रथे कृष्णेनान्धकारसर्जनेन सूर्यबिम्बपिधानम्॥ 1 ॥ अदृश्यमाने भानौ जयद्रथे च निःशङ्कमात्मानमाविष्कुर्वति अर्जुनेन कृष्णचोदनया तच्छिरश्छेदः॥ 2 ॥ कृष्णेनार्जुनम्प्रति जयद्रथशिरः बूतले न निपातनीयमित्युक्ते तेन तम्प्रति तत्कारणकथनप्रार्थना॥ 3 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-147-0x(4652)(51376)
श्रुत्वा निनादं धनुषश्च तस्य
विस्पषृमुत्कष्टमिवान्तकस्य।
शक्राशनिस्फोटसमं सुघोरं
विकृष्यमाणस्य धनञ्जयेन॥ 7-147-1(51377)
त्रासोद्विग्नं तथोद्धान्तं त्वदीयं तद्बलं नृप।
युगान्तवातसङ्क्षुब्धं चलद्वीचितरङ्गितम्।
प्रलीनमीनमकरं सागराम्भ इवाभवत्॥ 7-147-2(51378)
`मध्यन्दिनगतं सूर्यमापतन्तमिवाम्बरे।
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम्'॥ 7-147-3(51379)
स रणे व्यचरत्पार्थः प्रेक्ष्यमाणो धनञ्जयः।
युगपद्दिक्षु सर्वासु सर्वाण्यस्त्राणि दर्शयन्॥ 7-147-4(51380)
आददानं महाराज सन्दधानं च पाण्डवम्।
उत्कर्षन्तं सृजन्तं च न स्म पश्याम लाघवात्॥ 7-147-5(51381)
[ततः क्रुद्धो महाबाहुरैन्द्रमस्त्रं दुरासदम्।
प्रादुश्चक्रे महाराज त्रासयन्सर्वभारतान्॥ 7-147-6(51382)
ततः शराः प्रादुरासन्दिव्यास्त्रप्रतिमन्त्रिताः।
प्रदीपाश्च शिखिमुखाः शतशोऽथ सहस्रशः॥ 7-147-7(51383)
आकर्णपूर्णनिर्मुक्तैरग्न्यर्कांशुनिभैः शरैः।
नभोऽभवत्तद्दुष्प्रेक्ष्यमुल्काभिरिव संवृतम्॥ 7-147-8(51384)
ततः शस्त्रान्धकारं तत्कौरवैः समुदीरितम्।
अशक्यं मनसाऽप्यन्यैः पाण्डवः सम्भ्रमन्निव॥ 7-147-9(51385)
नाशयामास विक्रम्य शरैर्दिव्यास्त्रमन्त्रितैः।
नैशं तमोंशुभिः क्षिप्रं दिनादाविव भास्करः॥ 7-147-10(51386)
ततस्तु तावकं सैन्यं दीप्तैः शरगभस्तिभिः।
आक्षिपत्पल्वलाम्बूनि निदाघार्क इव प्रभुः॥ 7-147-11(51387)
ततो दिव्यास्त्रविदुषा प्रहिताः सायकांशवः।
समाप्लवन्द्विषत्सैन्यं लोकं भागोरिवांशवः॥ 7-147-12(51388)
अथापरे समुत्सृष्टा विशिखास्तिग्मतेजसः।
हृदयान्याशु वीराणां विविशुः प्रियबन्धुवत्॥ 7-147-13(51389)
य एनमीयुः समरे त्वद्योधाः शूरमानिनः।
शलभा इव ते दीप्तमग्निं प्राप्य ययुः क्षयम्॥ 7-147-14(51390)
एवं स मृद्रञ्शत्रूणां जीवितानि यशांसि च।
पार्थश्चचार सङ्ग्रामे मृत्युर्विग्रहवानिव॥ 7-147-15(51391)
स किरीटानि वस्त्राणि साङ्गदान्विपुलान्भुजान्।
सकुण्डलयुगान्कर्णान्केषाञ्चिदहरच्छरैः॥ 7-147-16(51392)
सतोमरान्गजस्थानां सप्रासान्हयसादिनाम्।
सचर्मणः पदातीनां रथिनां च सधन्वनः।
सप्रतोदान्नियन्तॄणां बाहूंश्चिच्छेद पाण्डवः॥ 7-147-17(51393)
प्रदीप्तोग्रशरार्जिष्मान्बभौ तत्र धनञ्जयः।
सविस्फुलिङ्गाग्रशिखो ज्वलन्निव हुताशनः॥ 7-147-18(51394)
तं देवराजप्रतिमं सर्वशस्त्रभृतां वरम्।
युगपद्दिक्षु सर्वासु रथस्थं पुरुषर्षभम्॥ 7-147-19(51395)
निक्षिपन्तं महास्त्राणि प्रेक्षणीयं धनञ्जयम्।
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनादिनम्॥ 7-147-20(51396)
निरीक्षितुं न शेकुस्ते यत्नवन्तोऽपि पार्थिवाः।
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे॥ 7-147-21(51397)
दीप्तोग्रसम्भृतशरः किरीटी विरराज ह।
वर्षास्विवोदीर्णजलः सेन्द्रधन्वाम्बुदो महान्॥ 7-147-22(51398)
महास्त्रसंप्लुवे तस्मिञ्जिष्णुना सम्प्रवर्तिते।
सुदुस्तरे महाघोरे ममज्जुर्योधपुङ्गवाः॥ 7-147-23(51399)
उत्कृत्तवदनैर्देहैः शरीरैः कृत्तबाहुभिः।
भुजैश्च पाणिनिर्मुक्तैः पाणिभिर्व्यङ्गुलीकृतैः॥ 7-147-24(51400)
कृत्ताग्रहस्तैः करिभिः कृत्तदन्तैर्मदोत्कटैः।
हयैश्च विधुरग्रीवै रथैश्च शकलीकृतैः॥ 7-147-25(51401)
निकृत्तान्त्रैः कृत्तपादैस्तथाऽन्यैः कृत्तसन्धिभिः।
निश्चेष्टैर्विस्फुरद्भिश्च शतशोऽथ सहस्रशः॥ 7-147-26(51402)
मृत्योराघातललितं तत्पार्थायोधनं महत्।
अपश्याम महीपाल भीरूणां भयवर्धनम्॥ 7-147-27(51403)
आक्रीडमिव रुद्रस्य पुराभ्यर्दयतः पशून्।
गजानां क्षुरनिर्मुक्तैः करैः सभुजगेव भूः॥ 7-147-28(51404)
क्वजिद्बभौ स्रग्विणीव वक्त्रपद्मैः समाचिता।
विचित्रोष्णीषमुकुटैः केयूराङ्गदकुण्डलैः॥ 7-147-29(51405)
स्वर्णचित्रतनुत्रैश्च भाण्डैश्च गजवाजिनाम्।
किरीटशतसङ्गीर्णा तत्र तत्र समाचिता।
विराज भृशं चित्रा मही नववधूरिव॥ 7-147-30(51406)
मज्जामेदःकर्दमिनीं शोणितौघतरङ्गिणीम्।
मर्मास्थिभिरगाधां च केशशैवलशाद्वलाम्॥ 7-147-31(51407)
शिरोबाहूपलतटां रुग्णक्रोडास्थिसङ्कटाम्।
चित्रध्वजपताकाढ्यां छत्राचापोर्मिमालिनीम्॥ 7-147-32(51408)
विगतासुमहाकायां गजदेहाभिसङ्कुलाम्।
रथोडुपशताकीर्णां हयसङ्घातरोधसम्॥ 7-147-33(51409)
रथचक्रयुगेषाक्षकूबरैरतिदुर्गमाम्।
प्रासासिशक्तिपरशुविशिखाहिदुरासदाम्॥ 7-147-34(51410)
बलकङ्कुमहानक्रां गोमायुमकरोत्कटाम्।
गृघ्रोदग्रमहाग्राहां शिवाविरुतभैरवाम्॥ 7-147-35(51411)
नृत्यत्प्रेतपिशाचाद्यैर्भूताकीर्णां सहस्रशः।
गतासुयोधनिश्चेष्टशरीरशतवाहिनीम्॥ 7-147-36(51412)
महाप्रतिभयां रौद्रां घोरां वैतरणीमिव।
नदीं प्रवर्तयामास भीरूणां भयवर्धिनीम्॥ 7-147-37(51413)
तं दृष्ट्वा तस्य विक्रान्तमन्तकस्येव रूपिणः।
अभूतपूर्वं कुरुषु भयमागाद्रणाजिरे॥ 7-147-38(51414)
तत आदाय वीराणामस्त्रैरस्त्राणि पाण्डवः।
आत्मानं रौद्रमाचष्ट रौद्रकर्मण्यधिष्ठितः॥ 7-147-39(51415)
ततो रथवरान्राजन्नत्यतिक्रामदर्जुनः॥] 7-147-40(51416)
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे।
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम्॥ 7-147-41(51417)
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः।
सङ्ग्रामे सम्प्रपश्यामो हंसपङ्क्तिरिवाम्बरे॥ 7-147-42(51418)
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वतः।
दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः॥ 7-147-43(51419)
स तान्रथवरान्राजन्नत्याक्रामत्तदाऽर्जुनः।
मोहयन्निव नाराचैर्जयद्रथवधेप्सया॥ 7-147-44(51420)
विसृजन्दिक्षु सर्वासु शरानच्युतसारथिः।
सरथो व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः॥ 7-147-45(51421)
भ्रमन्त इव शूरस्य शरव्राताः महात्मनः।
अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः॥ 7-147-46(51422)
आददानं महेष्वासं सन्दधानं च सायकम्।
विसृजन्तं च कौन्तेयं नानुपश्याम वै तदा॥ 7-147-47(51423)
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे।
आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्।
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम्॥ 7-147-48(51424)
[सैन्धवाभिमुखं यान्तं योधाः सम्प्रेक्ष्य पाण्डवम्।
न्यवर्तन्त रणाद्वीरा निराशास्तस्य जीविते॥ 7-147-49(51425)
यो योऽभ्यधावदाक्रन्दे तावकः पाण्डवं रणे।
तस्यतस्यान्तगा बाणाः शरीरे न्यपतन्प्रभो॥ 7-147-50(51426)
कबन्धसङ्कुलं चक्रे तव सैन्यं महारथः।
अर्जुनो जयतां श्रेष्ठः शरैरग्न्यंशुसन्निभैः॥ 7-147-51(51427)
एवं तत्तव राजेन्द्र चतुरङ्गबलं तदा।
व्याकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्॥ 7-147-52(51428)
द्रौणिं पञ्चाशताऽविध्यद्वृषसेनं त्रिभिः शरैः।
कृपायमाणः कौन्तेयः कृपं नवभिरार्दयत्॥ 7-147-53(51429)
शल्यं षोडशभिर्बाणैः कर्णं द्वात्रिंशता शरैः।
सैन्धवं तु चतुःषष्ट्या विद्व्वा सिंह इवानदत्॥] 7-147-54(51430)
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना।
न चक्षमे सुसङ्क्रुद्धस्तोत्रार्दित इव द्विपः॥ 7-147-55(51431)
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान्।
क्रुद्धाशीविषसङ्काशान्कर्मारपरिमार्जितान्॥ 7-147-56(51432)
आकर्णपूर्णांश्चिक्षेप फल्गुनस्य रथं प्रति।
त्रिभिस्तु विद्वा गोविन्दं नाराचैः षड्भिरर्जुनम्॥ 7-147-57(51433)
अष्टभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा।
`भूयश्चैवार्जुनं सङ्ख्ये शरवर्षैरवाकिरत्'॥ 7-147-58(51434)
स विक्षिप्यार्जुनस्तूर्णं सैन्धवप्रहिताञ्शरान्।
युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह।
सारथेश्च शिरः कायाद्व्वजं च समलङ्कृतम्॥ 7-147-59(51435)
स च्छिन्नयष्टिः सुमहान्धनञ्जयशराहतः।
वराहः सिन्धुराजस्य पपातेन्दुसमप्रभः॥ 7-147-60(51436)
आदित्यं प्रेक्षमाणस्तु बीभत्सुः सृक्विणी लिहन्।
अपश्यन्नान्तरं तस्य रक्षिभिः संवृतस्य वै॥ 7-147-61(51437)
अभवक्त्रोधरक्ताक्षो व्यात्तानन इवान्तकः।
अथाब्रवीद्वासुदेवः कुन्तीपुत्रं धनञ्जयम्॥ 7-147-62(51438)
नैव शक्यस्त्वया हन्तुं निर्व्याजं भरतर्षभ।
स्रक्ष्याम्यहमुपायं तमादित्यस्यापवारणे।
ततोऽस्तं गतमादित्यं मंस्यते सिन्धुराडिह॥ 7-147-63(51439)
ततोऽस्य विस्मयः पार्थ हर्षश्चैव भविष्यति।
आत्मजीवितलाभाच्च प्रतिज्ञायाश्च नाशनात्॥ 7-147-64(51440)
अस्तङ्गतमिवादित्यं दृष्ट्वा मोहेन बालिशः।
न हि शक्ष्यत्यथाऽऽत्मानं रक्षितुं हर्षसम्भवात्॥ 7-147-65(51441)
एतस्मिन्नेव काले तु प्रहर्तव्यं धनञ्जय।
जयद्रथस्य क्षुद्रस्य सविदुर्दर्शनार्थिनः॥ 7-147-66(51442)
सञ्जय उवाच। 7-147-67x(4653)
एवमुक्त्वा ततः पार्थं क्षिप्रमेवाहरत्प्रभाम्।
जनार्दनेन सृष्टं वै तम आदित्यनाशनम्॥ 7-147-67(51443)
पार्थस्य बलमज्ञानात्तमो दृष्ट्वा सुदुःखितम्।
अभवंस्तावका योधा हर्षसङ्कुलचेतसः॥ 7-147-68(51444)
ते प्रहृष्टा रणे राजन्नपश्यन्सैनिका रविम्।
उन्नाम्य वक्त्राणि तदा स च राजा जयद्रथः॥ 7-147-69(51445)
वीक्षमाणे ततस्तस्मिन्सिन्धुराजे दिवाकरम्।
उन्नमय्य शिरोग्रीवां वीक्षते सूर्यमण्डलम्।
तस्य शीघ्रं पृषत्केन कायाच्छीर्षमपाहर॥ 7-147-70(51446)
केशवेनैवमुक्तः सन्नमर्षाद्रक्तलोचनः।
उद्बबर्ह शरं तीक्ष्णममरैरपि दुःसहम्॥ 7-147-71(51447)
एवं तूणीशयं घोरमिन्द्राशनिसमप्रभम्।
वर्मभेदिनमत्यर्थं गन्धमाल्यार्चितं सदा।
विससर्ज ततस्तूर्णं सैन्धवस्य रथं प्रति॥ 7-147-72(51448)
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुनः।
शकुन्तमिव वृक्षाग्रात्सैन्धवस्याहरच्छिरः॥ 7-147-73(51449)
प्रपतिष्यति शीर्षे तु कृष्णोऽर्जुनमथाब्रवीत्।
पार्थ पार्थ शिरो ह्येतद्यथा नेयान्महीतलम्।
तथा कुरु कुरुश्रेष्ठ वक्ष्ये तस्यापि कारणम्॥ 7-147-74(51450)
श्रुत्वा तु वचनं तस्य त्वरमाणोऽस्त्रमायया।
तथाऽहरच्छिरस्तस्य शरैरूर्ध्वं धनञ्जयः।
दुर्हृदामपहर्षाय सुहृदां हर्षणाय च॥ 7-147-75(51451)
तिर्यगूर्ध्वमधश्चैव पुनरूर्ध्वमथापि च।
दीर्घकालमवाक्वैव सम्प्रक्रीडन्निवार्जुनः॥ 7-147-76(51452)
तत्सैन्यं सर्वतोपश्यन्महदाश्चर्यमद्भुतम्।
प्रापयत्स शिरो यस्माद्योधयन्नेव पार्थिवान्॥ 7-147-77(51453)
शरैः कन्दुकवत्कृत्वा तस्यालोकाय पाण्डवः।
स्यमन्तपञ्चकाद्बाह्ये शिरस्तदहरच्छरैः॥ 7-147-78(51454)
जयद्रथस्यार्जुनबाणनालं
मुखारविन्दं रुधिराम्बुसिक्तम्।
दृष्टं नरैश्चोपरिवर्तमानं
विद्याधरोत्सृष्टमिवैकपद्मम्॥ 7-147-79(51455)
स देवशत्रूनिव देवराजः
किरीटमाली व्यधमत्सपत्नान्।
यथा तमांस्यभ्युदितस्तमोघ्नः
पूर्णां प्रतिज्ञां स समाप्य वीरः॥ 7-147-80(51456)
अथाब्रवीत्केशवं पाण्डवेयः
कियन्तमध्यवानमिदं हरामि।
किमर्थमेतन्न निपात्यमुर्व्यां
क्व च प्रयातव्यमिदं च शंस।
शक्नोम्यहं यत्र भवान्ब्रवीति 7-147-81(51457)
7-147-81f"
तं भूमिदेशं च शिरो विनेतुम्॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तचत्वारिंशदधिकशततमोऽध्यायः॥ 147 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-147-6 कुण़्डलितः पाठो झ. पुस्तक एवास्ति॥ 5-147-49 कुण्डलितः पाठः झ.पुस्तक एव विद्यते॥ 5-147-67 उक्ता सृष्टं तमः कर्तृ प्रभामहरदित्यन्वयः॥ 5-147-68 बलं सैन्यं कर्तृ॥ 5-147-147 सप्तचत्वारिंशदधिकशततमोऽध्यायः॥ 5-147-* अथाब्रवीदित्यादीनां वीक्षते सूर्यमण्डलं इत्यन्तानां श्लोकानां स्थाने अधोलिखिताः श्लोकाः ङ.पुस्तके वर्तन्ते। अनस्तमित आदित्ये अतान्निर्जित्य सैन्धवः। न शक्योहन्तुमित्येवं मन्यमानो जनार्दनः॥ 1 ॥ सस्मार चक्रं दैत्यारिर्हरिश्चक्रं सुदर्शनम्। तदादिदेश भगवान्स्मृतमात्रमुपस्थितम्॥ 2 ॥ अस्तं गतमिवादित्यं तमसा च्छादयेति च। तत्तथोक्तं भगवता तमो भूत्वा विशाम्पते॥ 3 ॥ अन्धं तम इवाज्ञानामादित्यस्याहरत्प्रभाम्। उन्नमय्य शिरोग्रीवामपश्यत्सैन्धवो रविम्॥ 4 ॥ अथार्जुनं हृषीकेशः शोकपूर्णमथाध्रवीत्। पश्य कौन्तेय सिन्धूनामधिपं पापकारिणम्॥ 5 ॥ एष तिष्ठति मध्ये वै स्यन्दनस्य धनञ्जय।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|